|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.199. अध्यायः 199
Mahabharata - Shanti Parva - Chapter Topics
ज्ञानयोगादेः फलं भगवद्वेदनप्रकारं च पृष्टेन भीष्मेण युधिष्ठिरंप्रति तत्कथनाय मनुवृहस्पतिसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-199-0x(6039)(72915)
किं फलं ज्ञानयोगस्य वेदानां नियमस्य च।
भूतात्मा च कथं ज्ञेयस्तन्मे ब्रूहि पितामह॥ 12-199-1(72916)
भीष्म उवाच। 12-199-2x(6040)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
मनोः प्रजापतेर्वादं महर्षेश्च बृहस्पतेः॥ 12-199-2(72917)
प्रजापतिं श्रेष्ठतमं प्रजानां
देवर्षिसङप्रवरो महर्षिः।
बृहस्पतिः प्रश्नमिमं पुराणं
प्रपच्छ शिष्योऽथ गुरुं प्रणम्य॥ 12-199-3(72918)
यत्कारणं मन्त्रविधिः प्रवृत्तो
ज्ञाने फलं यत्प्रवदन्ति विप्राः।
यन्मन्त्रशब्दैरकृतप्रकाशं
तदुच्यतां मे भगवन्यथावत्॥ 12-199-4(72919)
यत्स्तोत्रशास्त्रागममन्त्रिविद्भि
र्यज्ञैरनेकैरथ गोप्रदानैः।
फलं महद्भिर्यदुपास्यते च
किं तत्कथं वा भविता क्व वा तत्॥ 12-199-5(72920)
मही महीजाः पवनोऽन्तरिक्षं
जलौकसश्चैव जलं तथा द्यौः।
दिवौकसश्चापि यतः प्रसूता
स्तदुच्यतां मे भगवन्पुराणम्॥ 12-199-6(72921)
ज्ञानं यतः प्रार्थयते नरो वै
ततस्तदर्था भवति प्रवृत्तिः।
न चाप्यहं वेद परं पुराणं
मिथ्याप्रवृत्तिं च कथं नु कुर्याम्॥ 12-199-7(72922)
ऋक्सामसङ्घांश्च यजूंषि चाहं
छन्दांसि नक्षत्रगतिं निरुक्तम्।
अधीत्य च व्याकरणं सकल्पं
शिक्षां च भूतप्रकृतिं न वेद्मि॥ 12-199-8(72923)
स मे भवाञ्शंसतु सर्वमेत
त्सामान्यशब्दैश्च विशेषणैश्च।
स मे भवाञ्शंसतु तावदेत
ज्ज्ञाने फलं कर्मणि वा यदस्ति॥ 12-199-9(72924)
यथा च देहाच्च्यवते शरीरी
पुनः शरीरं च यथाऽभ्युपैति। 12-199-10(72925)
मनुरुवाच।
यद्यत्प्रियं यस्य सुखं तदाहु
स्तदेव दुःखं प्रवदन्त्यनिष्टम्॥ 12-199-10x(6041)
इष्टं च मे स्यादितरच्च न स्या
देतत्कृते कर्मविधिः प्रवृत्तः।
इष्टं त्वनिष्टं च न मां भजेते
त्येतत्कृते ज्ञानविधिः प्रवृत्तः॥ 12-199-11(72926)
[कामात्मकाश्छन्दसि कर्मयोगा
एभिर्विमुक्तः परमश्नुवीत्।
नानाविधे कर्मपथे सुखार्थी
नरः प्रवृत्तो निरयं प्रयाति।] 12-199-12(72927)
बृहस्पतिरुवाच। इष्टं त्वनिष्टं च सुखासुखे च
साशीस्तपश्छन्दति कर्मभिश्च॥ 12-199-12x(6042)
मनुरुवाच। 12-199-13x(6043)
एभिर्विमुक्तः परमाविवेश
एतत्कृते कर्मविधिः प्रवृत्तः।
[कामात्मकांश्छन्दति कर्मयोग
एभिर्विमुक्तः परमाददीत॥] 12-199-13(72928)
आत्मादिभिः कर्मभिरिध्यमानो
धर्मे प्रवृत्तो द्युतिमान्सुखार्थी।
परं हि तत्कर्मफलादपेतं
निराशिषो यत्पदमाप्नुवन्ति॥ 12-199-14(72929)
प्रजाः सृष्टा मनसा कर्मणा च
द्वावेवैतौ सत्पथौ लोकजुष्टौ।
दृष्टं कर्माशाश्वतं चान्तवच्च
मनस्त्यागे कारणं नान्यदस्ति॥ 12-199-15(72930)
`कामात्मकौ छन्दसि कामभोगा
वेभिर्वियुक्तः परमश्नुवीत।
नानाविधे कर्मफले सुखार्थी
नरः प्रमत्तो न परं प्रयाति।
फलं हि तत्कर्मफलादपेतं
निराशिषो ब्रह्म परं ह्युपेतम्॥' 12-199-16(72931)
स्वेनात्मना चक्षुरिव प्रणेता
निशात्यये तमसा संवृतात्मा।
ज्ञानं तु विज्ञानगुणेन युक्तं
कर्माशुभं पश्यति वर्जनीयम्॥ 12-199-17(72932)
सर्पान्कृशाग्राणि तथोदपानं
त्वा मनुष्याः परिवर्जयन्ति।
अज्ञामतस्तत्र पतन्ति मूढा
ज्ञाने फलं पश्य यथा विशिष्टम्॥ 12-199-18(72933)
कृत्स्नस्तु मन्त्रो विधिवत्प्रयुक्तो
यज्ञा यथोक्तास्त्विह दक्षिणाश्च।
अन्नप्रदानं मनसः समाधिः
पञ्चात्मकं कर्मफलं वदन्ति॥ 12-199-19(72934)
गुणात्मकं कर्म वदन्ति वेदा
स्तस्मान्मन्त्रो मन्नपूर्वं हि कर्म।
विधिर्विधेयं मनसोपपत्तिः
फलस्य भोक्ता तु तथा शरीरी॥ 12-199-20(72935)
शब्दाश्च रूपाणि रसाश्च पुण्याः।
स्पर्शाश्च गन्धाश्च शुभास्तथैव।
नरोऽत्र हि स्थानगतः प्रभुः स्या
देतत्फलं सिद्ध्यति कर्मणोऽस्य॥ 12-199-21(72936)
यद्यच्छरीरेण करोति कर्म
शरीरयुक्तः समुपाश्नुते तत्।
शरीरमेवायतनं सुखस्य
दुःखस्य चाप्यायतनं शरीरम्॥ 12-199-22(72937)
वाचा तु यत्कर्म करोति किंचि
द्वाचैव सर्वं समुपाश्नुते तत्।
मनस्तु यत्कर्म करोति किंचि
न्मनःस्थ एवायमुपाश्नुते तत्॥ 12-199-23(72938)
यथायथा कर्मगुणां फलार्थी
करोत्ययं कर्मफले निविष्टः।
तथातथाऽयं गुणसंप्रयुक्तः
शुभाशुभं कर्मफलं भुनस्ति॥ 12-199-24(72939)
मत्स्यो यथा स्रोत इवाभिपाती
तथा कृतं पूर्वमुपैति कर्म।
शुभे त्वसौ तुष्यति दुष्कृते तु
न तुष्यते वै परमः शरीरी॥ 12-199-25(72940)
यतो जगत्सर्वमिदं प्रसूतं
ज्ञात्वाऽऽत्मवन्तो ह्युपयान्ति शान्तिम्।
यन्मन्त्रशब्देरकृतप्रकाशं
तदुच्यमानं शणु मे परं यत्॥ 12-199-26(72941)
रसैर्विमुक्तं विविधैश्च गन्धै
रशब्दमस्पर्शमरूपवच्च।
अग्राह्यमव्यक्तमवर्णमेकं
पञ्चप्रकारान्ससृजे प्रजानाम्॥ 12-199-27(72942)
न स्त्री पुमान्नापि नपुंसकं च
न सन्न चासत्सदसच्च तन्न।
पश्यन्ति तद्ब्रह्मविदो मनुष्या
स्तदक्षरं न क्षरतीति विद्धि॥ ॥ 12-199-28(72943)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनद्विशततमोऽध्यायः॥ 199॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|